संस्कृतभारत्याः उत्तर-असमप्रान्तस्य समीक्षा-योजना-गोष्ठी सफलतया सम्पन्ना

संस्कृतभारत्याः उत्तर-असमप्रान्तस्य समीक्षा-योजना-गोष्ठी सफलतया सम्पन्ना

संस्कृतभारत्याः उत्तर-असमप्रान्तस्य द्विदिवसीया समीक्षा-योजना-गोष्ठी गौहाटीस्थे फेन्सीबजारक्षेत्रे सुरजमल-जुहारमल-धर्मशालायां सफलतया सम्पन्ना जाता।

उत्तर-असमप्रान्तस्य अध्यक्षा सुदेष्णा भट्टाचार्या अस्या: गोष्ठ्याः अध्यक्षताम् अकरोत्। अखिलभारतीयसम्पर्कप्रमुखः श्रीशदेवपुजारी महाभागः विशेषरूपेण उपस्थितः आसीत्। अस्यां गोष्ठ्यां उत्तर-असमप्रान्तस्य विविधजनपदात् आगताः कार्यकर्तारः उत्साहेन भागं गृहीतवन्तः।

गोष्ठ्यां संस्कृतभारत्याः उत्तर-असमप्रान्तेन विगतवर्षे सम्पादितानां विविधकार्यक्रमाणां समीक्षा कृता। तथा च, आगामिदिनेषु संस्थायाः कार्यकलापानां प्रवर्धनाय नुतना: कार्ययोजनाः विस्तृतरूपेण चर्चिताः। संस्कृतस्य प्रचार-प्रसारं संरक्षणं च साधयितुं नूतनयोजनाः स्वीकृताः।
उक्तायां गोष्ठ्यां संस्कृत-भारत्या: उत्तर-असम-प्रान्तस्य डा° रञ्जित-कुमार-तिवारी, आचार्य प्रह्लाद-आर-जोशी, डा° रुक्म-बुढागोहाई,मोहन-कन्नन, पङ्कज-शर्मा, राजेन-शर्मा, भवेन-सैकिया, डा° छबिलाल-उपाध्याय इत्येषां समुपस्थितौ सुयोजितरूपेण सम्पूर्णकार्ययोजना प्रस्तुत्यते।

0 Comments

Post a Comment

Post a Comment (0)

Previous Post Next Post